- ॐ गणपतये नमः
- ॐ गणेश्वराय नमः
- ॐ गणाध्यक्षाय नमः
- ॐ गणाराध्याय नमः
- ॐ गणप्रियाय नमः
- ॐ गणनाथाय नमः
- ॐ गणस्वामिने नमः
- ॐ गणेशाय नमः
- ॐ गणनायकाय नमः
- ॐ गणमूर्तये नमः
- ॐ गणपतये नमः
- ॐ गणत्रात्रे नमः
- ॐ गणंजयाय नमः
- ॐ गणपाय नमः
- ॐ गणक्रीडाय नमः
- ॐ गणदेवाय नमः
- ॐ गणाधिपाय नमः
- ॐ गणज्येष्ठाय नमः
- ॐ गणश्रेष्ठाय नमः
- ॐ गणप्रेष्ठाय नमः
- ॐ गणाधिराजाय नमः
- ॐ गणराजे नमः
- ॐ गणगोप्त्रे नमः
- ॐ गणाङ्गाय नमः
- ॐ गणदैवताय नमः
- ॐ गणबंधवे नमः
- ॐ गणसुहृदे नमः
- ॐ गणाधीशाय नमः
- ॐ गणप्रदाय नमः
- ॐ गणप्रियसखाय नमः
- ॐ गणप्रियसुहृदे नमः
- ॐ गणप्रियरतोनित्याय नमः
- ॐ गणप्रीतिविवर्धनाय नमः
- ॐ गणमण्डलमध्यस्थाय नमः
- ॐ गणकेलिपरायणाय नमः
- ॐ गणाग्रण्ये नमः
- ॐ गणेशाय नमः
- ॐ गणगीताय नमः
- ॐ गणोच्छ्रयाय नमः
- ॐ गण्याय नमः
- ॐ गणहिताय नमः
- ॐ गर्जद्गणसेनाय नमः
- ॐ गणोद्यताय नमः
- ॐ गणप्रीतिप्रमतनाय नमः
- ॐ गणप्रीत्यपहारकाय नमः
- ॐ गणनार्हाय नमः
- ॐ गणप्रौढाय नमः
- ॐ गणभर्त्रे नमः
- ॐ गणप्रभवे नमः
- ॐ गणसेनाय नमः
- ॐ गणचराय नमः
- ॐ गणप्राज्ञाय नमः
- ॐ गणैकराजे नमः
- ॐ गणाग्र्याय नमः
- ॐ गण्यनाम्ने नमः
- ॐ गणपालनतत्पराय नमः
- ॐ गणजिते नमः
- ॐ गणगर्भस्थाय नमः
- ॐ गणप्रवणमानसाय नमः
- ॐ गणगर्वपरिहर्त्रे नमः
- ॐ गणाय नमः
- ॐ गणनमस्कृते नमः
- ॐ गणार्चितांघ्रियुगलाय नमः
- ॐ गणरक्षणकृते नमः
- ॐ गणध्याताय नमः
- ॐ गणगुरवे नमः
- ॐ गणप्रणयतत्पराय नमः
- ॐ गणागणपरित्रात्रे नमः
- ॐ गणादिहरणोदराय नमः
- ॐ गणसेतवे नमः
- ॐ गणनाथाय नमः
- ॐ गणकेतवे नमः
- ॐ गणाग्रगाय नमः
- ॐ गणहेतवे नमः
- ॐ गणग्राहिणे नमः
- ॐ गणानुग्रहकारकाय नमः
- ॐ गणागणानुग्रहभुवे नमः
- ॐ गणागणवरप्रदाय नमः
- ॐ गणस्तुताय नमः
- ॐ गणप्राणाय नमः
- ॐ गणसर्वस्वदायकाय नमः
- ॐ गणवल्लभमूर्तये नमः
- ॐ गणभूतये नमः
- ॐ गणेष्ठदाय नमः
- ॐ गणसौख्यप्रदाय नमः
- ॐ गणदुःखप्रणाशनाय नमः
- ॐ गणप्रथितनाम्ने नमः
- ॐ गणाभीष्टकराय नमः
- ॐ गणमान्याय नमः
- ॐ गणख्याताअय नमः
- ॐ गणवीताय नमः
- ॐ गणोत्कटाय नमः
- ॐ गणपालाय नमः
- ॐ गणवराय नमः
- ॐ गणगौरवदाय नमः
- ॐ गणगर्जितसंतुष्टाय नमः
- ॐ गणस्वच्छंदगाय नमः
- ॐ गणराजाय नमः
- ॐ गणश्रीदाय नमः
- ॐ गणभीतिहराय नमः
- ॐ गणमूर्धाभिषिक्ताय नमः
- ॐ गणसैन्यपुरःसराय नमः
- ॐ गुणातीताय नमः
- ॐ गुणमयाय नमः
- ॐ गुणत्रयविभगकृते नमः
- ॐ गुणिने नमः
- ॐ गुणकृतिधराय नमः
- ॐ गुणशालिने नमः
- ॐ गुणप्रियाय नमः
- ॐ गुणपूर्णाय नमः
- ॐ गुणभोधये नमः
- ॐ गुण भाजे नमः
- ॐ गुणदूरगाय नमः
- ॐ गुणागुणवपुषे नमः
- ॐ गुणशरीराय नमः
- ॐ गुणमण्डिताय नमः
- ॐ गुणस्रष्ट्रे नमः
- ॐ गुणेशाय नमः
- ॐ गुणेशानाय नमः
- ॐ गुणेश्वराय नमः
- ॐ गुणसृष्टजगत्संगाय नमः
- ॐ गुणसंघाय नमः
- ॐ गुणैकराजे नमः
- ॐ गुणप्रविष्टाय नमः
- ॐ गुणभुवे नमः
- ॐ गुणीकृतचराचराय नमः
- ॐ गुणप्रवणसंतुष्टाय नमः
- ॐ गुणहीनपराङ्मुखाय नमः
- ॐ गुणैकभुवे नमः
- ॐ गुणश्रेष्टाय नमः
- ॐ गुणज्येष्टाय नमः
- ॐ गुणप्रभवे नमः
- ॐ गुणज्ञाय नमः
- ॐ गुणसंपूज्याय नमः
- ॐ गुणप्रणतपादाब्जाय नमः
- ॐ गुणिगीताय नमः
- ॐ गुणोज्ज्वलाय नमः
- ॐ गुणवते नमः
- ॐ गुणसंपन्नाय नमः
- ॐ गुणानन्दितमानसाय नमः
- ॐ गुणसंचारचतुराय नमः
- ॐ गुणसंचयसुंदराय नमः
- ॐ गुणगौराय नमः
- ॐ गुणाधाराय नमः
- ॐ गुणसंवृतचेतनाय नमः
- ॐ गुणकृते नमः
- ॐ गुणभृते नमः
- ॐ गुण्याय नमः
- ॐ गुणाग्रयाय नमः
- ॐ गुणपारदृशे नमः
- ॐ गुणप्रचारिणे नमः
- ॐ गुणयुजे नमः
- ॐ गुणागुणविवेककृते नमः
- ॐ गुणाकराय नमः
- ॐ गुणप्रवणवर्धनाय नमः
- ॐ गुणगूढचराय नमः
- ॐ गौणसर्वसंसारचेष्टिताय नमः
- ॐ गुणदक्षिणसौहार्दाय नमः
- ॐ गुणदक्षिणतत्त्वविदे नमः
- ॐ गुणहारिणे नमः
- ॐ गुणकलाय नमः
- ॐ गुणसंघसखाय नमः
- ॐ गुणस,न्स्कृतसंसाराय नमः
- ॐ गुणतत्त्वविवेकाय नमः
- ॐ गुणगर्वधराय नमः
- ॐ गौणसुखदुःखोदयाय नमः
- ॐ गुणाय नमः
- ॐ गुणाधीशाय नमः
- ॐ गुणालयाय नमः
- ॐ गुणवीक्षणालालसाय नमः
- ॐ गुणगौरवदात्रे नमः
- ॐ गुणदात्रे नमः
- ॐ गुणप्रभ्वे नमः
- ॐ गुणकृते नमः
- ॐ गुणसंबोधाय नमः
- ॐ गुणभुजे नमः
- ॐ गुणबंधनाय नमः
- ॐ गुणहृद्याय नमः
- ॐ गुणस्थायिने नमः
- ॐ गुणदायिने नमः
- ॐ गुणोत्कटाय नमः
- ॐ गुणचक्रचराय नमः
- ॐ गुणावताराय नमः
- ॐ गुणबांधवाय नमः
- ॐ गुणबंधवे नमः
- ॐ गुणप्रज्ञाय नमः
- ॐ गुणप्राज्ञाय नमः
- ॐ गुणालयाय नमः
- ॐ गुणधात्रे नमः
- ॐ गुणप्राणाय नमः
- ॐ गुणगोपाय नमः
- ॐ गुणाश्रयाय नमः
- ॐ गुणयायिने नमः
- ॐ गुणदायिने नमः
- ॐ गुणपाय नमः
- ॐ गुणपालकाय नमः
- ॐ गुणहृततनवे नमः
- ॐ गौणाय नमः
- ॐ गीर्वाणाय नमः
- ॐ गुणगौरवाय नमः
- ॐ गुणवत्पूजितपदाय नमः
- ॐ गुणवत्प्रीतिदाय नमः
- ॐ गुणवते नमः
- ॐ गीतकीर्तये नमः
- ॐ गुणवद्भद्धसौहृदाय नमः
- ॐ गुणवद्वरदाय नमः
- ॐ गुणवत्प्रतिपालकाय नमः
- ॐ गुणवत्गुणसंतुष्टाय नमः
- ॐ गुणवद्रचितद्रवाय नमः
- ॐ गुणवद्रक्षणपराय नमः
- ॐ गुणवात्प्रणयप्रियाय नमः
- ॐ गुणवच्चक्रसंचाराय नमः
- ॐ गुणवत्कीर्तिवर्धनाय नमः
- ॐ गुणवद्गुणचित्तस्थाय नमः
- ॐ गुणवद्गुणरक्षणाय नमः
- ॐ गुणवत्पोषणकराय नमः
- ॐ गुणवच्छत्रुसूदनाय नमः
- ॐ गुणवत्सिद्धिदात्रे नमः
- ॐ गुणवद्गौरवप्रदाय नमः
- ॐ गुणवत्प्रणवस्वांताय नमः
- ॐ गुणवद्गुणभूषणाय नमः
- ॐ गुणवत्कुलविद्वेषि विनाशकरण-क्षमाय नमः
- ॐ गुणिस्तुतगुणाय नमः
- ॐ गर्जत्प्रलयांबुदनिःस्वनाय नमः
- ॐ गजाय नमः
- ॐ गजाननाय नमः
- ॐ गजपतये नमः
- ॐ गर्जन्नागयुद्धविशारदाय नमः
- ॐ गजकर्णाय नमः
- ॐ गजराजाय नमः
- ॐ गजाननाय नमः
- ॐ गजरूपधराय नमः
- ॐ गर्जते नमः
- ॐ गजयूथोद्धुरध्वनये नमः
- ॐ गजाधीशाय नमः
- ॐ गजाधराय नमः
- ॐ गजासुरजयोद्धुरय नमः
- ॐ गजदंताय नमः
- ॐ गजवराय नमः
- ॐ गजकुंभाय नमः
- ॐ गजध्वनये नमः
- ॐ गजमायाय नमः
- ॐ गजमयाय नमः
- ॐ गजश्रिये नमः
- ॐ गजगर्जिताय नमः
- ॐ गजामयहराय नमः
- ॐ गजपुष्टिप्रदाय नमः
- ॐ गजोत्पत्तये नमः
- ॐ गजत्रात्रे नमः
- ॐ गजहेतवे नमः
- ॐ गजाधिपाय नमः
- ॐ गजमुख्याय नमः
- ॐ गजकुलप्रवराय नमः
- ॐ गजदैत्यघ्ने नमः
- ॐ गजकेतवे नमः
- ॐ गजाध्यक्षाय नमः
- ॐ गजसेतवे नमः
- ॐ गजाकृतये नमः
- ॐ गजवंद्याय नमः
- ॐ गजप्राणाय नमः
- ॐ गजसेव्याय नमः
- ॐ गजप्रभवे नमः
- ॐ गजमत्ताय नमः
- ॐ गजेशानाय नमः
- ॐ गजेशाय नमः
- ॐ गजपुंगवाय नमः
- ॐ गजदंतधराअय नमः
- ॐ गर्जन्मधुपाय नमः
- ॐ गजवेषभृते नमः
- ॐ गजच्छद्मने नमः
- ॐ गजाग्रस्थाय नमः
- ॐ गजयायिने नमः
- ॐ गजाजयाय नमः
- ॐ गजराजे नमः
- ॐ गजयूथस्थाय नमः
- ॐ गजगर्जकभंजकाय नमः
- ॐ गर्जितोज्झितदैत्यासिने नमः
- ॐ गर्जितत्रातविष्टपाय नमः
- ॐ गानज्ञाय नमः
- ॐ गानकुशलाय नमः
- ॐ गानतत्त्वविवेचकाय नमः
- ॐ गानश्लाघिने नमः
- ॐ गानरसाय नमः
- ॐ गानज्ञानपरायणाय नमः
- ॐ गानागमज्ञाय नमः
- ॐ गानांगाय नमः
- ॐ गानप्रवणचेतनाय नमः
- ॐ गानध्येयाय नमः
- ॐ गानगम्याय नमः
- ॐ गानध्यानपरायणाय नमः
- ॐ गानभुवे नमः
- ॐ गानकृते नमः
- ॐ गानचतुराय नमः
- ॐ गानविद्याविशारदाय नमः
- ॐ गानशीलाय नमः
- ॐ गानशालिने नमः
- ॐ गतश्रमाय नमः
- ॐ गानविज्ञानसंपन्नाय नमः
- ॐ गानश्रवणलालसाय नमः
- ॐ गानायत्ताय नमः
- ॐ गानमयाय नमः
- ॐ गानप्रणयवते नमः
- ॐ गानध्यात्रे नमः
- ॐ गानबुद्धये नमः
- ॐ गानोत्सुकमनसे नमः
- ॐ गानोत्सुकाय नमः
- ॐ गानभूमये नमः
- ॐ गानसीम्ने नमः
- ॐ गानोज्ज्वलाय नमः
- ॐ गानांगज्ञानवते नमः
- ॐ गानमानवते नमः
- ॐ गानपेशलाय नमः
- ॐ गानवत्प्रणयाय नमः
- ॐ गानसमुद्राय नमः
- ॐ गानभूषणाय नमः
- ॐ गानसिंधवे नमः
- ॐ गानपराय नमः
- ॐ गानप्राणाय नमः
- ॐ गणाश्रयाय नमः
- ॐ गनैकभुवे नमः
- ॐ गानहृष्टाय नमः
- ॐ गानचक्षुषे नमः
- ॐ गनैकदृशे नमः
- ॐ गानमत्ताय नमः
- ॐ गानरुचये नमः
- ॐ गानविदे नमः
- ॐ गनवित्प्रियाय नमः
- ॐ गानांतरात्मने नमः
- ॐ गानाढ्याय नमः
- ॐ गानभ्राजत्स्वभावाय नमः
- ॐ गनमायाय नमः
- ॐ गानधराय नमः
- ॐ गानविद्याविशोधकाय नमः
- ॐ गानाहितघ्नाय नमः
- ॐ गानेन्द्राय नमः
- ॐ गानलीलाय नमः
- ॐ गतिप्रियाय नमः
- ॐ गानाधीशाय नमः
- ॐ गानलयाय नमः
- ॐ गानाधाराय नमः
- ॐ गतीश्वराय नमः
- ॐ गानवन्मानदाय नमः
- ॐ गानभूतये नमः
- ॐ गानैकभूतिमते नमः
- ॐ गानताननताय नमः
- ॐ गानतानदानविमोहिताय नमः
- ॐ गुरवे नमः
- ॐ गुरूदरश्रेणये नमः
- ॐ गुरुतत्त्वार्थदर्शनाय नमः
- ॐ गुरुस्तुताय नमः
- ॐ गुरुगुणाय नमः
- ॐ गुरुमायाय नमः
- ॐ गुरुप्रियाय नमः
- ॐ गुरुकीर्तये नमः
- ॐ गुरुभुजाय नमः
- ॐ गुरुवक्षसे नमः
- ॐ गुरुप्रभाय नमः
- ॐ गुरुलक्षणसंपन्नाय नमः
- ॐ गुरुद्रोहपराङ्मुखाय नमः
- ॐ गुरुविद्याय नमः
- ॐ गुरुप्रणाय नमः
- ॐ गुरुबाहुबलोच्छ्रयाय नमः
- ॐ गुरुदैत्यप्राणहराय नमः
- ॐ गुरुदैत्यापहारकाय नमः
- ॐ गुरुगर्वहराय नमः
- ॐ गुरुप्रवराय नमः
- ॐ गुरुदर्पघ्ने नमः
- ॐ गुरुगौरवदायिने नमः
- ॐ गुरुभीत्यपहारकाय नमः
- ॐ गुरुशुण्डाय नमः
- ॐ गुरुस्कन्धाय नमः
- ॐ गुरुजंघाय नमः
- ॐ गुरुप्रथाय नमः
- ॐ गुरुभालाय नमः
- ॐ गुरुगलाय नमः
- ॐ गुरुश्रिये नमः
- ॐ गुरुगर्वनुदे नमः
- ॐ गुरवे नमः
- ॐ गुरुपीनांसाय नमः
- ॐ गुरुप्रणयलालसाय नमः
- ॐ गुरुमुख्याय नमः
- ॐ गुरुकुलस्थायिने नमः
- ॐ गुणगुरवे नमः
- ॐ गुरुसंशयभेत्रे नमः
- ॐ गुरुमानप्रदायकाय नमः
- ॐ गुरुधर्मसदाराध्याय नमः
- ॐ गुरुधर्मनिकेतनाय नमः
- ॐ गुरुदैत्यगलच्छेत्रे नमः
- ॐ गुरुसैन्याय नमः
- ॐ गुरुद्युतये नमः
- ॐ गुरुधर्माग्रण्याय नमः
- ॐ गुरुधर्मधुरंधराय नमः
- ॐ गरिष्ठाय नमः
- ॐ गुरुसंतापशमनाय नमः
- ॐ गुरुपूजिताय नमः
- ॐ गुरुधर्मधराय नमः
- ॐ गौरवधर्मधराय नमः
- ॐ गदापहाय नमः
- ॐ गुरुशास्त्रविचारज्ञाय नमः
- ॐ गुरुशास्त्रकृतोद्यमाय नमः
- ॐ गुरुशास्त्रार्थनिलयाय नमः
- ॐ गुरुशास्त्रालयाय नमः
- ॐ गुरुमन्त्राय नमः
- ॐ गुरुश्रेष्ठाय नमः
- ॐ गुरुमन्त्रफलप्रदाय नमः
- ॐ गुरुस्त्रीगमनदोषप्रायश्चित्तनिवारकाय नमः
- ॐ गुरुसंसारसुखदाय नमः
- ॐ गुरुसंसारदुःखभिदे नमः
- ॐ गुरुश्लाघापराय नमः
- ॐ गौरभानुखंडावतंसभृते नमः
- ॐ गुरुप्रसन्नमूर्तये नमः
- ॐ गुरुशापविमोचकाय नमः
- ॐ गुरुकांतये नमः
- ॐ गुरुमहते नमः
- ॐ गुरुशासनपालकाय नमः
- ॐ गुरुतंत्राय नमः
- ॐ गुरुप्रज्ञाय नमः
- ॐ गुरुभाय नमः
- ॐ गुरुदैवताय नमः
- ॐ गुरुविक्रमसंचाराय नमः
- ॐ गुरुदृशे नमः
- ॐ गुरुविक्रमाय नमः
- ॐ गुरुक्रमाय नमः
- ॐ गुरुप्रेष्ठाय नमः
- ॐ गुरुपाखंडखंडकाय नमः
- ॐ गुरुगर्जितसंपूर्णब्रह्माण्डाय नमः
- ॐ गुरुगर्जिताय नमः
- ॐ गुरुपुत्रप्रियसखाय नमः
- ॐ गुरुपुत्रभयापहाय नमः
- ॐ गुरुपुत्रपरित्रात्रे नमः
- ॐ गुरुपुत्रवरप्रदाय नमः
- ॐ गुरुपुत्रार्तिशमनाय नमः
- ॐ गुरुपुत्राधिनाशनाय नमः
- ॐ गुरुपुत्रप्राणदाय नमः
- ॐ गुरुभक्तिपरायणाय नमः
- ॐ गुरुविज्ञानविभवाय नमः
- ॐ गौरभानुवरप्रदाय नमः
- ॐ गौरभानुसुताय नमः
- ॐ गौरभानुत्रासापहारकाय नमः
- ॐ गौरभानुप्रियाय नमः
- ॐ गौरभानवे नमः
- ॐ गौरववर्धनाय नमः
- ॐ गौरभानुपरित्रात्रे नमः
- ॐ गौरभानुसखाय नमः
- ॐ गौरभानुप्रभवे नमः
- ॐ गौरभानुमत्प्राणनाशनाय नमः
- ॐ गौरीतेजःसमुत्पन्नाय नमः
- ॐ गौरीहृदयनन्दनाय नमः
- ॐ गौरीस्तनंधयाय नमः
- ॐ गौरीमनोवाञ्चितसिद्धिकृते नमः
- ॐ गौराय नमः
- ॐ गौरगुणाय नमः
- ॐ गौरप्रकाशाय नमः
- ॐ गौरभैरवाय नमः
- ॐ गौरीशनन्दनाय नमः
- ॐ गौरीप्रियपुत्राय नमः
- ॐ गदाधराय नमः
- ॐ गौरीवरप्रदाय नमः
- ॐ गौरीप्रणयाय नमः
- ॐ गौरच्छवये नमः
- ॐ गौरीगणेश्वराय नमः
- ॐ गौरीप्रवणाय नमः
- ॐ गौरभावनाय नमः
- ॐ गौरात्मने नमः
- ॐ गौरकीर्तये
- ॐ गौरभावाय नमः
- ॐ गरिष्ठदृशे नमः
- ॐ गौतमाय नमः
- ॐ गौतमीनाथाय नमः
- ॐ गौतमीप्राणवल्लभाय नमः
- ॐ गौतमाभीष्टवरदाय नमः
- ॐ गौतमाभयदायकाय नमः
- ॐ गौतमप्रणयप्रह्वाय नमः
- ॐ गौतमाश्रमदुःखघ्ने नमः
- ॐ गौतमीतीरसंचारिणे नमः
- ॐ गौतमीतीर्थदायकाय नमः
- ॐ गौतमापत्परिहराय नमः
- ॐ गौतमाधिविनाशनाय नमः
- ॐ गोपतये नमः
- ॐ गोधनाय नमः
- ॐ गोपाय नमः
- ॐ गोपालप्रियदर्शनाय नमः
- ॐ गोपालाय नमः
- ॐ गोगणाधीशाय नमः
- ॐ गोकश्मलनिवर्तकाय नमः
- ॐ गोसहस्राय नमः
- ॐ गोपवराय नमः
- ॐ गोपगोपीसुखावहाय नमः
- ॐ गोवर्धनाय नमः
- ॐ गोपगोपाय नमः
- ॐ गोपाय नमः
- ॐ गोकुलवर्धनाय नमः
- ॐ गोचराय नमः
- ॐ गोचराध्य्क्षाय नमः
- ॐ गोचरप्रीतिवृद्धिकृते नमः
- ॐ गोमिने नमः
- ॐ गोकष्टसंत्रात्रे नमः
- ॐ गोसंतापनिवर्तकाय नमः
- ॐ गोष्ठाय नमः
- ॐ गोष्ठाश्रयाय नमः
- ॐ गोष्ठपतये नमः
- ॐ गोधनवर्धनाय नमः
- ॐ गोष्ठप्रियाय नमः
- ॐ गोष्ठमयाय नमः
- ॐ गोष्ठामयनिवर्तकाय नमः
- ॐ गोलोकाय नमः
- ॐ गोलकाय नमः
- ॐ गोभृते नमः
- ॐ गोभर्त्रे नमः
- ॐ गोसुखावहाय नमः
- ॐ गोदुहे नमः
- ॐ गोधुग्गणप्रेष्ठाय नमः
- ॐ गोदोग्ध्रे नमः
- ॐ गोपयःप्रियाय नमः
- ॐ गोत्राय नमः
- ॐ गोत्रपतये नमः
- ॐ गोत्रभवाय नमः
- ॐ गोत्रभयापहाय नमः
- ॐ गोत्रवृद्धिकराय नमः
- ॐ गोत्रप्रियाय नमः
- ॐ गोत्रातिनाशनाय नमः
- ॐ गोत्रोद्धारपराय नमः
- ॐ गोत्रप्रभवाय नमः
- ॐ गोत्रदेवतायै नमः
- ॐ गोत्रविख्यातनाम्ने नमः
- ॐ गोत्रिणे नमः
- ॐ गोत्रप्रपालकाय नमः
- ॐ गोत्रसेतवे नमः
- ॐ गोत्रकेतवे नमः
- ॐ गोत्रहेतवे नमः
- ॐ गतक्लमाय नमः
- ॐ गोत्रत्राणकराय नमः
- ॐ गोत्रपतये नमः
- ॐ गोत्रेशपूजिताय नमः
- ॐ गोत्रविदे नमः
- ॐ गोत्रभित्त्रात्रे नमः
- ॐ गोत्रभिद्वरदायकाय नमः
- ॐ गोत्रभित्पूजितपदाय नमः
- ॐ गोत्रभिच्छत्रुसूदनाय नमः
- ॐ गोत्रभित्प्रीतिदाय नमः
- ॐ गोत्रभिदे नमः
- ॐ गोत्रपालकाय नमः
- ॐ गोत्रभिद्गीतचरिताय नमः
- ॐ गोत्रभिद्राज्यरक्षकाय नमः
- ॐ गोत्रभिद्वरदायिने नमः
- ॐ गोत्रभित्प्राणनिलयाय नमः
- ॐ गोत्रभिद्भयसंहर्त्रे नमः
- ॐ गोत्रभिन्मानदायकाय नमः
- ॐ गोत्रभिद्गोपनपराय नमः
- ॐ गोत्रभित्सैन्यनायकाय नमः
- ॐ गोत्राधिपप्रियाय नमः
- ॐ गोत्रापुत्रप्रीताय नमः
- ॐ गिरिप्रियाय नमः
- ॐ ग्रन्थज्ञाय नमः
- ॐ ग्रन्थकृते नमः
- ॐ ग्रन्थग्रन्थिदाय नमः
- ॐ ग्रन्थविघ्नघ्ने नमः
- ॐ ग्रन्थादये नमः
- ॐ ग्रन्थसञ्चारये नमः
- ॐ ग्रन्थश्रवणलोलुपाय नमः
- ॐ ग्रन्ताधीनक्रियाय नमः
- ॐ ग्रन्थप्रियाय नमः
- ॐ ग्रन्थार्थतत्त्वविदे नमः
- ॐ ग्रन्थसंशयसंछेदिने नमः
- ॐ ग्रन्थवक्त्राय नमः
- ॐ ग्रहाग्रण्ये नमः
- ॐ ग्रन्थगीतगुणाय नमः
- ॐ ग्रन्थगीताय नमः
- ॐ ग्रन्थादिपूजिताय नमः
- ॐ ग्रन्थारंभस्तुताय नमः
- ॐ ग्रन्थग्राहिणे नमः
- ॐ ग्रन्थार्थपारदृशे नमः
- ॐ ग्रन्थदृशे नमः
- ॐ ग्रन्थविज्ञानाय नमः
- ॐ ग्रन्थसंदर्शशोधकाय नमः
- ॐ ग्रन्थकृत्पूजिताय नमः
- ॐ ग्रन्थकराय नमः
- ॐ ग्रन्थपरायणाय नमः
- ॐ ग्रन्थपारायणपराय नमः
- ॐ ग्रन्थसंदेहभंजकाय नमः
- ॐ ग्रन्थकृद्वरदात्रे नमः
- ॐ ग्रन्थकृते नमः
- ॐ ग्रन्थवन्दिताय नमः
- ॐ ग्रन्थानुरक्ताय नमः
- ॐ ग्रन्थज्ञाय नमः
- ॐ ग्रन्थानुग्रहदायकाय नमः
- ॐ ग्रन्थान्तरात्मने नमः
- ॐ ग्रन्थार्थपण्डिताय नमः
- ॐ ग्रन्थसौहृदाय नमः
- ॐ ग्रन्थपारङ्गमाय नमः
- ॐ ग्रन्थगुणविदे नमः
- ॐ ग्रन्थविग्रहाय नमः
- ॐ ग्रन्थसेवते नमः
- ॐ ग्रन्थहेतवे नमः
- ॐ ग्रन्थकेतवे नमः
- ॐ ग्रहाग्रगाय नमः
- ॐ ग्रन्थपूज्याय नमः
- ॐ ग्रन्थगेयाय नमः
- ॐ ग्रन्थग्रथनलालसाय नमः
- ॐ ग्रन्थभूमये नमः
- ॐ ग्रहश्रेष्ठाय नमः
- ॐ ग्रहकेतवे नमः
- ॐ ग्रहाश्रयाय नमः
- ॐ ग्रन्थकाराय नमः
- ॐ ग्रन्थकारमान्याय नमः
- ॐ ग्रन्थप्रसारकाय नमः
- ॐ ग्रन्थश्रमज्ञाय नमः
- ॐ ग्रन्थांगाय नमः
- ॐ ग्रन्थभ्रमनिवारकाय नमः
- ॐ ग्रन्थप्रवणसर्वाङ्गाय नमः
- ॐ ग्रन्थप्रणयतत्पराय नमः
- ॐ गीताय नमः
- ॐ गीतगुणाय नमः
- ॐ गीतकीर्तये नमः
- ॐ गीतविशारदाय नमः
- ॐ गीतस्फीतये नमः
- ॐ गीतप्रणयिने नमः
- ॐ गीतचंचुराय नमः
- ॐ गीतप्रसन्नाय नमः
- ॐ गीतात्मने नमः
- ॐ गीतलोलाय नमः
- ॐ गीतस्पृहाय नमः
- ॐ गीताश्रयाय नमः
- ॐ गीतमयाय नमः
- ॐ गीततत्वार्थकोविदाय नमः
- ॐ गीतसंशयसंछेत्रे नमः
- ॐ गीतसङ्गीतशासनाय नमः
- ॐ गीतार्थज्ञाय नमः
- ॐ गीततत्वाय नमः
- ॐ गीतातत्वाय नमः
- ॐ गताश्रयाय नमः
- ॐ गीतसाराय नमः
- ॐ गीतकृतये नमः
- ॐ गीतविघ्नविनाशनाय नमः
- ॐ गीतासक्ताय नमः
- ॐ गीतलीनाय नमः
- ॐ गीताविगतसंज्व्राय नमः
- ॐ गीतैकदृशे नमः
- ॐ गीतभूतये नमः
- ॐ गीताप्रियाय नमः
- ॐ गतालसाय नमः
- ॐ गीतवाद्यपटवे नमः
- ॐ गीतप्रभवे नमः
- ॐ गीतार्थतत्वविदे नमः
- ॐ गीतागीतविवेकज्ञाय नमः
- ॐ गीतप्रवणचेतनाय नमः
- ॐ गतभिये नमः
- ॐ गतविद्वेषाय नमः
- ॐ गतसंसारबंधनाय नमः
- ॐ गतमायाय नमः
- ॐ गतत्रासाय नमः
- ॐ गतदुःखाय नमः
- ॐ गतज्वराय नमः
- ॐ गतासुहृदे नमः
- ॐ गताज्ञानाय नमः
- ॐ गतदुष्टाशयाय नमः
- ॐ गताय नमः
- ॐ गतार्तये नमः
- ॐ गतसंकल्पाय नमः
- ॐ गतदुष्टविचेष्टिताय नमः
- ॐ गताहंहारसंचाराय नमः
- ॐ गतदर्पाय नमः
- ॐ गताहिताय नमः
- ॐ गताविद्याय नमः
- ॐ गतभयाय नमः
- ॐ गतागतनिवारकाय नमः
- ॐ गतव्यथाय नमः
- ॐ गतापायाय नमः
- ॐ गतदोषाय नमः
- ॐ गतेः पराय नमः
- ॐ गतसर्वविकाराय नमः
- ॐ गजगर्जितकुञ्जराय नमः
- ॐ गतकंपितमूपृष्ठाय नमः
- ॐ गतरुषे नमः
- ॐ गतकल्मषाय नमः
- ॐ गतदैन्याय नमः
- ॐ गतस्तैन्याय नमः
- ॐ गतमानाय नमः
- ॐ गतश्रमाय नमः
- ॐ गतक्रोधाय नमः
- ॐ गतग्लानये नमः
- ॐ गतम्लानये नमः
- ॐ गतभ्रमाय नमः
- ॐ गताभावाय नमः
- ॐ गतभवाय नमः
- ॐ गततत्वार्थसंशयाय नमः
- ॐ गयासुरशिरश्छेत्रे नमः
- ॐ गयासुरवरप्रदाय नमः
- ॐ गयावासाय नमः
- ॐ गयानाथाय नमः
- ॐ गयावासिनमस्कृतय नमः
- ॐ गयातीर्थफलाध्यक्षाय नमः
- ॐ गयायात्राफलप्रदाय नमः
- ॐ गयामयाय नमः
- ॐ गयाक्षेत्राय नमः
- ॐ गयाक्षेत्रनिवासकृते नमः
- ॐ गयावासिस्तुताय नमः
- ॐ गायन्मधुव्रतलसत्कटाय नमः
- ॐ गायकाय नमः
- ॐ गायकवराय नमः
- ॐ गायकेष्टफलप्रदाय नमः
- ॐ गायकप्रणयिने नमः
- ॐ गात्रे नमः
- ॐ गायकाभयदायकाय नमः
- ॐ गायकप्रवणस्वांताय नमः
- ॐ गायकप्रथमाय नमः
- ॐ गायकोद्गीतसंप्रीताय नमः
- ॐ गायकोत्कटविघ्नघ्ने नमः
- ॐ गानगेयाय नमः
- ॐ गायकेशाय नमः
- ॐ गायकांतरसंचाराय नमः
- ॐ गायकप्रियदाय नमः
- ॐ गायकाधीनविग्रहाय नमः
- ॐ गेयाय नमः
- ॐ गेयगुणाय नमः
- ॐ गेयचरिताय नमः
- ॐ गेयतत्वविदे नमः
- ॐ गायकत्रासघ्ने नमः
- ॐ ग्रंथाय नमः
- ॐ ग्रंथतत्वविवेचकाय नमः
- ॐ गाढानुरागय नमः
- ॐ गाढांगाय नमः
- ॐ गाढगंगाजलोद्वहाय नमः
- ॐ गाढावगाढजलधये नमः
- ॐ गाढप्रज्ञाय नमः
- ॐ गतामयाय नमः
- ॐ गाढप्रत्यर्थिसैन्याय नमः
- ॐ गाढानुग्रहतत्पराय नमः
- ॐ गाढाश्लेषरसाभिज्ञाय नमः
- ॐ गाढनिर्वृत्तिसाधकाय नमः
- ॐ गंगाधरेष्टवरदाय नमः
- ॐ गंगाधरभयापहाय नमः
- ॐ गंगाधरगुरवे नमः
- ॐ गंगाधरध्यानपरायणाय नमः
- ॐ गंगाधरस्तुताय नमः
- ॐ गंगाधरराध्याय नमः
- ॐ गतस्मयाय नमः
- ॐ गंगाधरप्रियाय नमः
- ॐ गंगाधराय नमः
- ॐ गंगांबुसुन्दराय नमः
- ॐ गंगाजलरसास्वाद चतुराय नमः
- ॐ गंगानिरताय नमः
- ॐ गंगाजलप्रणयवते नमः
- ॐ गंगातीरविहाराय नमः
- ॐ गंगाप्रियाय नमः
- ॐ गंगाजलावगाहनपराय नमः
- ॐ गन्धमादनसंवासाय नमः
- ॐ गन्धमादनकेलिकृते नमः
- ॐ गन्धानुलिप्तसर्वाङ्गाय नमः
- ॐ गन्धलुभ्यन्मधुव्रताय नमः
- ॐ गन्धाय नमः
- ॐ गन्धर्वराजाय नमः
- ॐ गन्धर्वप्रियकृते नमः
- ॐ गन्धर्वविद्यातत्वज्ञाय नमः
- ॐ गन्धर्वप्रीतिवर्धनाय नमः
- ॐ गकारबीजनिलयाय नमः
- ॐ गन्धकाय नमः
- ॐ गर्विगर्वनुदे नमः
- ॐ गन्धर्वगणसंसेव्याय नमः
- ॐ गन्धर्ववरदायकाय नमः
- ॐ गन्धर्वाय नमः
- ॐ गन्धमातङ्गाय नमः
- ॐ गन्धर्वकुलदैवताय नमः
- ॐ गन्धर्वसंशयच्छेत्रे नमः
- ॐ गन्धर्ववरदर्पघ्ने नमः
- ॐ गन्धर्वप्रवणस्वान्ताय नमः
- ॐ गन्धर्वगणसंस्तुताय नमः
- ॐ गन्धर्वार्चितपादाब्जाय नमः
- ॐ गन्धर्वभयहारकाय नमः
- ॐ गन्धर्वाभयदाय नमः
- ॐ गन्धर्वप्रीतिपालकाय नमः
- ॐ गन्धर्वगीतचरिताय नमः
- ॐ गन्धर्वप्रणयोत्सुकाय नमः
- ॐ गन्धर्वगानश्रवणप्रणयिने नमः
- ॐ गन्धर्वभाजनाय नमः
- ॐ गन्धर्वत्राणसन्नद्धय नमः
- ॐ गन्धर्वसमरक्षमाय नमः
- ॐ गन्धर्वस्त्रीभिराराध्याय नमः
- ॐ गानाय नमः
- ॐ गानपटवे नमः
- ॐ गच्छाय नमः
- ॐ गच्छपतये नमः
- ॐ गच्छनायकाय नमः
- ॐ गच्छगर्वघ्ने नमः
- ॐ गच्छराजाय नमः
- ॐ गच्छेशाय नमः
- ॐ गच्छराजनमस्कृताय नमः
- ॐ गच्छप्रियाय नमः
- ॐ गच्छगुरवे नमः
- ॐ गच्छत्राणकृतोद्यमाय नमः
- ॐ गच्छप्रभवे नमः
- ॐ गच्छचराय नमः
- ॐ गच्छप्रियकृतोद्यमाय नमः
- ॐ गच्छातीतगुणाय नमः
- ॐ गच्छमर्यादाप्रतिपालकाय नमः
- ॐ गच्छधात्रे नमः
- ॐ गच्छभर्त्रे नमः
- ॐ गच्छवन्द्याय नमः
- ॐ गुरोर्गुरवे नमः
- ॐ गृत्साय नमः
- ॐ गृत्समदाय नमः
- ॐ गृत्समदाभीष्टवरप्रदाय नमः
- ॐ गीर्वाणगीतचरिताय नमः
- ॐ गीर्वाणगणसेविताय नमः
- ॐ गीर्वाणवरदात्रे नमः
- ॐ गीर्वाणभयनाशकृते नमः
- ॐ गीर्वाणगणसङ्गीताय नमः
- ॐ गीर्वाणारातिसूदनाय नमः
- ॐ गीर्वाणधाम्ने नमः
- ॐ गीर्वाणगोप्त्रे नमः
- ॐ गीर्वाणगर्वनुदे नमः
- ॐ गीर्वाणार्तिहराय नमः
- ॐ गीर्वाणवरदायकाय नमः
- ॐ गीर्वाणशरणाय नमः
- ॐ गीतनाम्ने नमः
- ॐ गीर्वाणसुन्दराय नमः
- ॐ गीर्वाणप्राणदाय नमः
- ॐ गंत्रे नमः
- ॐ गीर्वाणानीकरक्षकाय नमः
- ॐ गुहेहापूरकाय नमः
- ॐ गन्धमत्ताय नमः
- ॐ गीर्वाणपुष्टिदाय नमः
- ॐ गीर्वाणप्रयुतत्रात्रे नमः
- ॐ गीतगोत्राय नमः
- ॐ गताहिताय नमः
- ॐ गीर्वाणसेवितपदाय नमः
- ॐ गीर्वाणप्रथिताय नमः
- ॐ गलते नमः
- ॐ गीर्वाणगोत्रप्रवराय नमः
- ॐ गीर्वाणबलदाय नमः
- ॐ गीर्वाणप्रियकर्त्रे नमः
- ॐ गीर्वाणागमसारविदे नमः
- ॐ गीर्वाणागमसंपत्तये नमः
- ॐ गीर्वाणव्यसनापत्ने नमः
- ॐ गीर्वाणप्रणयाय नमः
- ॐ गीतग्रहणोत्सुकमानसाय नमः
- ॐ गीर्वाणमदसंहर्त्रे नमः
- ॐ गीर्वाणगणपालकाय नमः
- ॐ ग्रहाय नमः
- ॐ ग्रहपतये नमः
- ॐ ग्रहाय नमः
- ॐ ग्रहपीडाप्रणाशनाय नमः
- ॐ ग्रहस्तुताय नमः
- ॐ ग्रहाध्यक्षाय नमः
- ॐ ग्रहेशाय नमः
- ॐ ग्रहदैवताय नमः
- ॐ ग्रहकृते नमः
- ॐ ग्रहभर्त्रे नमः
- ॐ ग्रहेशानाय नमः
- ॐ ग्रहेश्वराय नमः
- ॐ ग्रहाराध्याय नमः
- ॐ ग्रहत्रात्रे नमः
- ॐ ग्रहगोप्त्रे नमः
- ॐ ग्रहोत्कटाय नमः
- ॐ ग्रहगीतगुणाय नमः
- ॐ ग्रन्थप्रणेत्रे नमः
- ॐ ग्रहवन्दिताय नमः
- ॐ गविने नमः
- ॐ गवीश्वराय नमः
- ॐ ग्रहणे नमः
- ॐ ग्रहष्ठायनमः
- ॐ ग्रहगर्वघ्ने नमः
- ॐ गवांप्रियाय नमः
- ॐ गवांनाथाय नमः
- ॐ गवीशानाय नमः
- ॐ गवांपतये नमः
- ॐ गव्यप्रियाय नमः
- ॐ गवांगोप्त्रे नमः
- ॐ गविसंपत्तिसाधकाय नमः
- ॐ गविरक्षणसन्नद्धाय नमः
- ॐ गविभयहरय नमः
- ॐ गविगर्वहराय नमः
- ॐ गोदाय नमः
- ॐ गोप्रदाय नमः
- ॐ गोजयप्रदाय नमः
- ॐ गोजायुतबलाय नमः
- ॐ गंडगुंजन्मधुव्रताय नमः
- ॐ गंडस्थलगलद्दानमिलन्मत्तालिमण्डिताय नमः
- ॐ गुडाय नमः
- ॐ गुडाप्रियाय नमः
- ॐ गण्डगलद्दानाय नमः
- ॐ गुडाशनाय नमः
- ॐ गुडाकेशाय नमः
- ॐ गुडाकेशसहायाय नमः
- ॐ गुडलड्डुभुजे नमः
- ॐ गुडभुजे नमः
- ॐ गुडभुग्गण्याय नमः
- ॐ गुडाकेशवरप्रदाय नमः
- ॐ गुडाकेशार्चितपदाय नमः
- ॐ गुडाकेशसखाय नमः
- ॐ गदाधरार्चितपदाय नमः
- ॐ गदाधरजयप्रदाय नमः
- ॐ गदायुधाय नमः
- ॐ गदापाणये नमः
- ॐ गदायुद्धविशारदाय नमः
- ॐ गदघ्ने नमः
- ॐ गददर्पघ्ने नमः
- ॐ गदगर्वप्रणाशनाय नमः
- ॐ गदग्रस्तपरित्रात्रे नमः
- ॐ गदाडंबरखण्डकाय नमः
- ॐ गुहाय नमः
- ॐ गुहाग्रजाय नमः
- ॐ गुप्ताय नमः
- ॐ गुहाशायिने नमः
- ॐ गुहाशयाय नमः
- ॐ गुहप्रीतिकराय नमः
- ॐ गूढाय नमः
- ॐ गूढगुल्फाय नमः
- ॐ गुणैकदृशे नमः
- ॐ गिरे नमः
- ॐ गीष्पतये नमः
- ॐ गिरीशानाय नमः
- ॐ गीर्देवीगीतसद्गुणाय नमः
- ॐ गीर्देवाय नमः
- ॐ गीष्प्रियाय नमः
- ॐ गीर्भुवे नमः
- ॐ गीरात्मने नमः
- ॐ गीष्प्रियङ्कराय नमः
- ॐ गीर्भूमये अमः
- ॐ गीरसज्ञ्याय नमः
- ॐ गीःप्रसन्नाय नमः
- ॐ गिरीश्वराय नमः
- ॐ गिरीशजाय नमः
- ॐ गिरीशायिने नमः
- ॐ गिरिराजसुखावहाय नमः
- ॐ गिरिराजार्चितपदाय नमः
- ॐ गिरिराजनमस्कृताय नमः
- ॐ गिरिराजगुहाविष्टाय नमः
- ॐ गिरिराजाभयप्रदाय नमः
- ॐ गिरिराजेष्टवरदाय नमः
- ॐ गिरिराजप्रपालकाय नमः
- ॐ गिरिराजसुतासूनवे नमः
- ॐ गिरिराजजयप्रदाय नमः
- ॐ गिरिव्रजवनस्थायिने नमः
- ॐ गिरिव्रजचराय नमः
- ॐ गर्गाय नमः
- ॐ गर्गप्रियाय नमः
- ॐ गर्गदेवाय नमः
- ॐ गर्गनमस्कृताय नमः
- ॐ गर्गभीतिहराय नमः
- ॐ गर्गवरदाय नमः
- ॐ गर्गसंस्तुताय नमः
- ॐ गर्गगीतप्रसन्नात्मने नमः
- ॐ गर्गानन्दकराय नमः
- ॐ गर्गप्रियाय नमः
- ॐ गर्गमानप्रदाय नमः
- ॐ गर्गारिभञ्जकाय नमः
- ॐ गर्गवर्गपरित्रात्रे नमः
- ॐ गर्गसिद्धिप्रदायकाय नमः
- ॐ गर्गग्लानिहराय नमः
- ॐ गर्गश्रमनुदे नमः
- ॐ गर्गसङ्गताय नमः
- ॐ गर्गाचार्याय नमः
- ॐ गर्गऋषये नमः
- ॐ गर्गसन्मानभाजनाय नमः
- ॐ गंभीराय नमः
- ॐ गणितप्रज्ञाय नमः
- ॐ गणितागमसारविदे नमः
- ॐ गणकाय नमः
- ॐ गणकश्लाघ्याय नमः
- ॐ गणकप्रणयोत्सुकाय नमः
- ॐ गणकप्रवणस्वान्ताय नमः
- ॐ गणिताय नमः
- ॐ गणितागमाय नमः
- ॐ गद्याय नमः
- ॐ गद्यमयाय नमः
- ॐ गद्यपद्यविद्याविवेचकाय नमः
- ॐ गललग्नमहानागाय नमः
- ॐ गलदर्चिषे नमः
- ॐ गलन्मदाय नमः
- ॐ गलत्कुष्ठिव्यथाहन्त्रे नमः
- ॐ गलत्कुष्ठिसुखप्रदाय नमः
- ॐ गंभीरनाभये नमः
- ॐ गंभीरस्वराय नमः
- ॐ गंभीरलोचनाय नमः
- ॐ गंभीरगुणसंपन्नाय नमः
- ॐ गंभीरगतिशोभनाय नमः
- ॐ गर्भप्रदाय नमः
- ॐ गर्भरूपाय नमः
- ॐ गर्भापद्विनिवारकाय नमः
- ॐ गर्भागमनसंभूतये नमः
- ॐ गर्भदाय नमः
- ॐ गर्भशोकनुदे नमः
- ॐ गर्भत्रात्रे नमः
- ॐ गर्भगोप्त्रे नमः
- ॐ गर्भपुष्टिकराय नमः
- ॐ गर्भगौरवसाधनाय नमः
- ॐ गर्भगर्वनुदे नमः
- ॐ गरीयसे नमः
- ॐ गर्वनुदे नमः
- ॐ गर्वमर्दिने नमः
- ॐ गरदमर्दकाय नमः
- ॐ गरसंतापशमनाय नमः
- ॐ गुरुराजसुखप्रदाय नमः
- ॐ गर्भाश्रयाय नमः
- ॐ गर्भमयाय नमः
- ॐ गर्भामयनिवारकाय नमः
- ॐ गर्भाधाराय नमः
- ॐ गर्भधराय नमः
- ॐ गर्भसन्तोषसाधकाय नमः